Class 9th Sanskrat trimasik pepar 2026-27 pdf download

Class 9th Sanskrat trimasik pepar 2026-27

 त्रैमासिक परीक्षा 2026-27

कक्षा 9वीं 

विषय: संस्कृत

समय: 3 घण्टा: पूर्णांक: 75

निर्देशाः

(i) सर्वे प्रश्नाः अनिवार्यः सन्ति।

(ii) प्रश्नानां सम्मुखे अङ्काः प्रदत्ताः।

प्र.1 उचितं विकल्पं चित्वा लिखत - [1 × 6 = 6]

(i) "वाणी" पदे वचनम् अस्ति -

(अ) एकवचनम् (ब) द्विवचनम् (स) बहुवचनम् (द) एतेषु कोऽपि न

(ii) "बालिका" इति पदम् अस्ति -

(अ) अकारान्तः (ब) आकारान्तः. (स) उकारान्तः (द) ईकारान्तः

(iii) "तटे" पदे विभक्तिः अस्ति -

(अ) द्वितीया (ब) सप्तमी (स) षष्ठी. (द) प्रथमा

(iv) "बालकौ" इत्यस्मिन् पदे वचनम् अस्ति -

(अ) एकवचनम् (ब) द्विवचनम् (स) बहुवचनम्. (द) एतेषु कोऽपि न

(v) "पुस्तक" शब्दे प्रथमा विभक्तेः एकवचने रूपं भवति -

(अ) पुस्तकम्. (ब) पुस्तकस्य (स) पुस्तकात् (द) पुस्तकानाम्

(vi) "विद्याहीना न शोभन्ते" अस्मिन् वाक्ये अव्ययं अस्ति -

(अ) विद्या (ब) हीना. (स) न (द) शोभन्ते


प्र.2 रिक्तस्थानं पूरयत - [1 × 6 = 6]

(i) 'चल' धातोः लट् लकारस्य मध्यम पुरुषस्य एकवचने रूपं .......... भवति। (चलतः / चलसि)

(ii) 'दृश्' धातोः लट् लकारस्य उत्तम पुरुषस्य बहुवचने रूपं .......... भवति। (पश्यावः / पश्यामः)

(iii) 'रक्ष' धातोः लृट् लकारस्य मध्यम पुरुषस्य एकवचने रूपं .......... भवति। (रक्षिष्यसि / रक्षिष्यामि)

(iv) 'पठ्' धातोः विधिलिङ् लकारस्य मध्यम पुरुषस्य द्विवचने रूपं .......... भवति। (पठेतम् / पठेत)

(v) 'समरूपः' अत्र .......... उपसर्गः प्रयुक्तः। (सम् / रूपः)

(vi) 'दुरुपयोगः' अत्र .......... उपसर्गः प्रयुक्तः। (दुर् / योगः)


प्र.3 सही जोड़ी (युग्ममेलं कुरुत) - [1 × 6 = 6]

       (अ) (ब)

(i). प्र + उक्तम्. (क) द्वंद्व समासः

(ii). अत्रैव. (ख) गुणसन्धिः

(iii). स्नानार्थम्. (ग) प्रोक्तम्

(iv). घन इव श्यामः. (घ) घनश्यामः

(v). नवरात्रम्. (ङ) अत्र + एव

(vi). महान् चासौ देवः. (च) महादेवः


प्र.4 एकपदेन उत्तरं लिखत - [1 × 6 = 6]

(i) 'लघु' पदेन सह 'तमप्' प्रत्यय योजनेन किं रूपं भवति ?

(ii) 'रुद्' पदेन सह 'तुमुन्' प्रत्यय योजनेन किं रूपं भवति ?

(iii) 'ताडयित्वा' इत्यत्र कः प्रत्ययः?

(iv) पठ् + तुमुन् प्रत्यय योजनेन किं रूपं भवति ?

(v) कविः कां वादयितुं वाणीं प्रार्थयति ?

(vi) कुत्र दरिद्रता न भवति ?


प्र.5 शुद्ध उत्तरे 'आम्' अशुद्ध उत्तरे 'न' इति लिखत - [1 × 6 = 6]

(i) 'गुणयुक्तः दरिद्रः' इत्यत्र विशेषणं पदं 'दरिद्रः' अस्ति।

(ii) 'पलायमानं श्वानम्' इत्यत्र विशेष्यं पदं 'श्वानम्' अस्ति।

(iii) 'पवनः' इत्यस्य पर्यायं पदं 'तीरे' अस्ति।

(iv) 'तटे' इत्यस्य पर्यायं पदं 'समीरः' अस्ति।

(v) 'शीघ्रम्' शब्दस्य विलोमं पदं 'सत्त्वरम्' अस्ति।

(vi) 'नीरसः' शब्दस्य विलोमं पदं 'सरसः' अस्ति।


प्र.6 अधोलिखितयोः एकस्य प्रश्नस्य उत्तरं संस्कृतभाषायां लिखत - [2]

       सलिलं तव वीणामाकर्ण्य कथम् उच्चलेत् ?

अथवा

        कविः कस्याः तीरे मधुमाधवीनां नतां पङ्क्तिम् अवलोक्य वीणां वादयितुं भगवतीं भारतीं कथयति ?


प्र.7 अधोलिखितयोः एकस्य प्रश्नस्य उत्तरं संस्कृतभाषायां लिखत - [2]

      निर्धनायाः दुहिता मञ्जूषायां कानि अपश्यत्?

अथवा

      बालिका किं दृष्ट्वा आश्चर्यचकिता जाता?


प्र.8 अधोलिखितयोः एकस्य प्रश्नस्य उत्तरं संस्कृतभाषायां लिखत - [2]

      सज्जनानां मैत्री कीदृशी भवति ?

अथवा

      सरोवराणां हानिः कदा भवति ?


प्र.9 अधोलिखितयोः एकस्य प्रश्नस्य उत्तरं संस्कृतभाषायां लिखत - [2]

      बालकः कीदृशं चटकम् अपश्यत्?

अथवा

      बालकः चटकाय क्रीडनार्थं कीदृशं लोभं दत्तवान्?


प्र.10 अधोलिखितयोः एकस्य प्रश्नस्य उत्तरं संस्कृतभाषायां लिखत - [2]

       स्नानानन्तरं पुत्रविषये पृष्टः वणिक्पुत्रः श्रेष्ठिनं किम् अवदत् ?

अथवा

        धर्माधिकारिणः जीर्णधनश्रेष्ठिनौ कथं तोषितवन्तः ?


प्र.11 रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत (कोऽपि द्वौ) - [2]

       (i) वृत्ततः क्षीणः हतः भवति।

       (ii) स्वादून् भक्ष्यकवलान् ते दास्यामि।

       (iii) जीर्णधनः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्।


प्र.12 अधोलिखितानि वाक्यानि कः कं प्रति कथयति (कोऽपि द्वौ) - [2]

       (i) सूर्यातपे तण्डुलान् खगेभ्यो रक्ष।

      (ii) तण्डुलान् मा भक्षय।

      (iii) भो नीचकाक ! अहमागता, मह्यं तण्डुलमूल्यं प्रयच्छ।


प्र.13 प्रश्नपत्रे समागतान् श्लोकान् विहाय स्वपाठ्यपुस्तकात् सुभाषितद्वयं लिखत - [2]


प्र.14 अधोलिखितेषु अशुद्ध-कारकवाक्यानां शुद्धिं कुरुत (कोऽपि द्वौ) - [2]

       (i) युवकः सर्प विभेति।

       (ii) वृक्षं पत्राणि पतन्ति।

       (iii) लक्ष्मणः रामे सह गच्छामि।


प्र.15 रिक्तस्थानं पूरयत (कोऽपि चत्वारः) - [2]

(वृत्तम्, परेषाम्, जन्तवः, काशीविश्वनाथमन्दिरम्, त्रिंशत्, बालः)

(i) अहं स्वसखिभिः सह स्वः प्रातः .......... प्रति गमिष्यामि।

(ii) तत्र .......... सेटकमितं दुग्धम् अपेक्षते।

(iii) .......... यत्नेन संरक्षेद्।

(iv) आत्मनः प्रतिकूलानि .......... न समाचरेत्।

(v) प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति ..........।

(vi) भ्रान्तः कश्चन .......... पाठशालागमनवेलायां क्रीडितुम् आगच्छत्।


प्र.16 अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण योजयत - [2]

(i) उभौ नन्दिन्याः सर्वविधपरिचर्या कुरुतः।

(ii) उत्सवदिने यदा दोग्धुं प्रयत्नं करोति तदा नन्दिनी पादेन प्रहरति।

(iii) कार्याणि समये करणीयानि इति चन्दनः नन्दिन्याः पादप्रहारेण अवगच्छति।

(iv) चन्दनस्य पत्नी तीर्थयात्रां समाप्य गृहं प्रत्यागच्छति।


प्र.17 वाच्यपरिवर्तनं कुरुत (कोऽपि द्वौ) - [2]

(i) त्वं पुस्तकम् पठसि। (कर्मवाच्ये)

(ii) रामेण पुस्तकं पठ्यते। (कर्तृवाच्ये)

(iii) तेन विद्यालयः गम्यते। (कर्तृवाच्ये)


प्र.18 अधोलिखितगद्यांशं पठित्वा प्रश्नानां उत्तराणि लिखत - [3]

भ्रान्तः कश्चन बालकः पाठशालागमनवेलायां क्रीडितुम् अगच्छत्। किन्तु तेन सह केलिभिः कालं क्षेप्तुं तदा कोऽपि न वयस्येषु उपलभ्यमान आसीत्। यतः ते सर्वेऽपि पूर्वदिनपाठान् स्मृत्वा विद्यालयागमनाय त्वरमाणाः अभवन्। तन्द्रालुः बालः लज्जया तेषां दृष्टिपथमपि परिहरन् एकाकी किमपि उद्यानं प्राविशत्। सः अचिन्तयत् - "विरमन्तु एते वारकाः पुस्तकदासाः। अहं तु आत्मानं विनोदयिष्यामि।"

(i) बालकः कदा क्रीडितुम् अगच्छत् ?

(ii) तन्द्रालुः बालः लज्जया तेषां दृष्टिपथमपि परिहरन् कुत्र प्राविशत् ?

(iii) कथं विनोदयिष्यामि ?


प्र.19 अधोलिखितपद्यांशं पठित्वा प्रश्नानां उत्तराणि लिखत - [3]

प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।

तस्मात्तदेव वक्तव्यं वचने का दरिद्रता ॥

(i) जन्तवः कथं तुष्यन्ति ?

(ii) तस्मात् किं वक्तव्यम् ?

(iii) कुत्र का दरिद्रता ?


प्र.20 अधोलिखितनाट्यांशं पठित्वा प्रश्नानां उत्तराणि लिखत - [3]

चन्दनः - (चिन्तयति) मासान्ते एव दुग्धस्य आवश्यकता भवति। यदि प्रतिदिन दोहनं करोमि तर्हि दुग्धं सुरक्षितं न तिष्ठति। इदानीं किं करवाणि? भवतु नाम मासान्ते एव सम्पूर्णतया दुग्धदोहनं करोमि। (एवं क्रमेण सप्तदिनानि व्यतीतानि। सप्ताहान्ते मल्लिका प्रत्यागच्छति) मल्लिका - (प्रविश्य) स्वामिन् ! प्रत्यागता अहम्। आस्वादय प्रसादम्। (चन्दनः मोदकानि खादति वदति च) चन्दनः - मल्लिके ! तव यात्रा तु सम्यक् सफल जाता? काशीविश्वनाथस्य कृपया प्रियं निवेदयामि।

(i) मासान्ते कस्य आवश्यकता भवति ?

(ii) एवं क्रमेण कति दिनानि व्यतीतानि ?

(iii) कस्य कृपया प्रियं निवेदयामि?


प्र.21 अधोलिखितं अपठितगद्यांशं पठित्वा प्रश्नानां उत्तराणि लिखत - [4]

स्वतन्त्रतादिवसे प्रातःकाले एव नगरे नगरे ग्रामे ग्रामे राष्ट्रध्वजारोहणं क्रियते। तदनन्तरं नेतृणां भाषणानि भवन्ति। जनाः स्वगृहेषु कार्यालयेषु च राष्ट्रध्वजम् आरोहन्ति राष्ट्रस्य उन्नतये च शपथं कुर्वन्ति। राष्ट्रभक्तानां वीराणां स्मरणं क्रियते। दूरदर्शने दिल्लीनगरस्य स्वतन्त्रतादिवसस्य राष्ट्रीयकार्यक्रमः दृश्यते। तत्र प्रधानमन्त्रिणः सन्देशोऽपि श्रुतिगोचरः भवति। तत्र विशालः जनसमूहः एकत्रितः भवति। लालकिला-दुर्गस्य उपरि निर्मितमञ्चे विशिष्टाः अतिथयः उपविशन्ति। सर्वं दृश्यं अतिरमणीयम् दर्शनीयं च भवति।

(i) स्वतन्त्रतादिवसे केषां भाषणानि भवन्ति?

(ii) दूरदर्शने कस्य कार्यक्रमः दृश्यते?

(iii) के राष्ट्रस्य उन्नत्यै शपथं कुर्वन्ति?

(iv) स्वतन्त्रतादिवसे कदा राष्ट्रध्वजारोहणं क्रियते ?


प्र.22 प्रार्थनापत्रम् स्वप्राचार्यस्य कृते शुल्कमुक्त्यर्थं प्रार्थनापत्रं संस्कृतभाषायां लिखत। (4)

अथवा

स्वभगिन्याः विवाहे आमंत्रयितुम् स्वमित्रं प्रति पत्रं संस्कृतभाषायां लिखत।


प्र.23 निबंध लेखनम् - [4]

अधोलिखितेषु एकं विषयं स्वीकृत्य संस्कृतभाषायां 100-150 शब्दैः निबंधं लिखत -

(i) पर्यावरणम्

(ii) अस्माकं देशः

(iii) महाकविः कालिदासः



कोई टिप्पणी नहीं

Blogger द्वारा संचालित.